Ṛk 7.5.6
Saṃhitā
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षंत॑ ।
त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥
त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त |
त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ||
tvé asuryám vásavo nyṛ́ṇvankrátum hí te mitramaho juṣánta ǀ
tvám dásyūm̐rókaso agna āja urú jyótirjanáyannā́ryāya ǁ
tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya ||
Padapāṭha
त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।
त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥
त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रऽमहः । जुषन्त ।
त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥
tvé íti ǀ asuryám ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ krátum ǀ hí ǀ te ǀ mitra-mahaḥ ǀ juṣánta ǀ
tvám ǀ dásyūn ǀ ókasaḥ ǀ agne ǀ ājaḥ ǀ urú ǀ jyótiḥ ǀ janáyan ǀ ā́ryāya ǁ
tve iti ǀ asuryam ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ kratum ǀ hi ǀ te ǀ mitra-mahaḥ ǀ juṣanta ǀ
tvam ǀ dasyūn ǀ okasaḥ ǀ agne ǀ ājaḥ ǀ uru ǀ jyotiḥ ǀ janayan ǀ āryāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.005.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.08.01
- Maṇḍala · Anuvāka · Ṛk
- 07.01.062
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.