Ṛk 7.97.4
Saṃhitā
स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।
कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥
स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति |
कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ||
sá ā́ no yónim sadatu préṣṭho bṛ́haspátirviśvávāro yó ásti ǀ
kā́mo rāyáḥ suvī́ryasya tám dātpárṣanno áti saścáto áriṣṭān ǁ
sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti |
kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān ||
Padapāṭha
सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ ।
कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥
सः । आ । नः । योनिम् । सदतु । प्रेष्ठः । बृहस्पतिः । विश्वऽवारः । यः । अस्ति ।
कामः । रायः । सुऽवीर्यस्य । तम् । दात् । पर्षत् । नः । अति । सश्चतः । अरिष्टान् ॥
sáḥ ǀ ā́ ǀ naḥ ǀ yónim ǀ sadatu ǀ préṣṭhaḥ ǀ bṛ́haspátiḥ ǀ viśvá-vāraḥ ǀ yáḥ ǀ ásti ǀ
kā́maḥ ǀ rāyáḥ ǀ su-vī́ryasya ǀ tám ǀ dāt ǀ párṣat ǀ naḥ ǀ áti ǀ saścátaḥ ǀ áriṣṭān ǁ
saḥ ǀ ā ǀ naḥ ǀ yonim ǀ sadatu ǀ preṣṭhaḥ ǀ bṛhaspatiḥ ǀ viśva-vāraḥ ǀ yaḥ ǀ asti ǀ
kāmaḥ ǀ rāyaḥ ǀ su-vīryasya ǀ tam ǀ dāt ǀ parṣat ǀ naḥ ǀ ati ǀ saścataḥ ǀ ariṣṭān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.097.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.21.04
- Maṇḍala · Anuvāka · Ṛk
- 07.06.055
- Devatā देवता
- 1: Indra; 2, 4-8: Bṛhaspati; 3, 9: Indra, Brahmaṇaspati; 10: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.