Ṛk 7.99.4
Saṃhitā
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नयं॑ता॒ सूर्य॑मु॒षास॑म॒ग्निं ।
दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥
उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् |
दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ||
urúm yajñā́ya cakrathuru lokám janáyantā sū́ryamuṣā́samagním ǀ
dā́sasya cidvṛṣaśiprásya māyā́ jaghnáthurnarā pṛtanā́jyeṣu ǁ
uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim |
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||
Padapāṭha
उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् ।
दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥
उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् ।
दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥
urúm ǀ yajñā́ya ǀ cakrathuḥ ǀ ūṃ íti ǀ lokám ǀ janáyantā ǀ sū́ryam ǀ uṣásam ǀ agním ǀ
dā́sasya ǀ cit ǀ vṛṣa-śiprásya ǀ māyā́ḥ ǀ jaghnáthuḥ ǀ narā ǀ pṛtanā́jyeṣu ǁ
urum ǀ yajñāya ǀ cakrathuḥ ǀ ūṃ iti ǀ lokam ǀ janayantā ǀ sūryam ǀ uṣasam ǀ agnim ǀ
dāsasya ǀ cit ǀ vṛṣa-śiprasya ǀ māyāḥ ǀ jaghnathuḥ ǀ narā ǀ pṛtanājyeṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.099.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.24.04
- Maṇḍala · Anuvāka · Ṛk
- 07.06.072
- Devatā देवता
- 1-3, 7: Viṣṇu; 4-6: Indra, Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.