Ṛgveda · Maṇḍala 7 · Sūkta 83

Ṛk 7.83.10

Indra, Varuṇa · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥

अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः |
अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ||

asmé índro váruṇo mitró aryamā́ dyumnám yacchantu máhi śárma sapráthaḥ ǀ
avadhrám jyótiráditerṛtāvṛ́dho devásya ślókam savitúrmanāmahe ǁ

asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

Padapāṭha

अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।
अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥

अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।
अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥

asmé íti ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ dyumnám ǀ yacchantu ǀ máhi ǀ śárma ǀ sa-práthaḥ ǀ
avadhrám ǀ jyótiḥ ǀ áditeḥ ǀ ṛta-vṛ́dhaḥ ǀ devásya ǀ ślókam ǀ savitúḥ ǀ manāmahe ǁ

asme iti ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ dyumnam ǀ yacchantu ǀ mahi ǀ śarma ǀ sa-prathaḥ ǀ
avadhram ǀ jyotiḥ ǀ aditeḥ ǀ ṛta-vṛdhaḥ ǀ devasya ǀ ślokam ǀ savituḥ ǀ manāmahe ǁ

References

Maṇḍala · Sūkta · Ṛk
07.083.10
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.05.05
Maṇḍala · Anuvāka · Ṛk
07.05.082
Devatā देवता
Indra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.83.10

Interpretations

Sāyaṇa

आवामिति पञ्चर्चं चतुर्दशं सूक्तम् वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् अनुक्रान्तञ्च-आवांपञ्चेति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्रे इदंसूक्तम् सूत्रितञ्च-आवांराजानाविन्द्रावरुणामधुमत्तमस्येति याज्येति ।