Ṛk 7.20.6
Saṃhitā
नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।
य॒ज्ञैर्य इंद्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥
नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् |
यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ||
nū́ citsá bhreṣate jáno ná reṣanmáno yó asya ghorámāvívāsāt ǀ
yajñáiryá índre dádhate dúvāṃsi kṣáyatsá rāyá ṛtapā́ ṛtejā́ḥ ǁ
nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt |
yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ ||
Padapāṭha
नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् ।
य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥
नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आऽविवासात् ।
यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतऽपाः । ऋतेऽजाः ॥
nú ǀ cit ǀ sáḥ ǀ bhreṣate ǀ jánaḥ ǀ ná ǀ reṣat ǀ mánaḥ ǀ yáḥ ǀ asya ǀ ghorám ǀ ā-vívāsāt ǀ
yajñáiḥ ǀ yáḥ ǀ índre ǀ dádhate ǀ dúvāṃsi ǀ kṣáyat ǀ sáḥ ǀ rāyé ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǁ
nu ǀ cit ǀ saḥ ǀ bhreṣate ǀ janaḥ ǀ na ǀ reṣat ǀ manaḥ ǀ yaḥ ǀ asya ǀ ghoram ǀ ā-vivāsāt ǀ
yajñaiḥ ǀ yaḥ ǀ indre ǀ dadhate ǀ duvāṃsi ǀ kṣayat ǀ saḥ ǀ rāye ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.020.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.02.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.042
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.