Ṛk 7.20.2
Saṃhitā
हंता॑ वृ॒त्रमिंद्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।
कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥
हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती |
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ||
hántā vṛtrámíndraḥ śū́śuvānaḥ prā́vīnnú vīró jaritā́ramūtī́ ǀ
kártā sudā́se áha vā́ u lokám dā́tā vásu múhurā́ dāśúṣe bhūt ǁ
hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī |
kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt ||
Padapāṭha
हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती ।
कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥
हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती ।
कर्ता । सुऽदासे । अह । वै । ऊं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥
hántā ǀ vṛtrám ǀ índraḥ ǀ śū́śuvānaḥ ǀ prá ǀ āvīt ǀ nú ǀ vīráḥ ǀ jaritā́ram ǀ ūtī́ ǀ
kártā ǀ su-dā́se ǀ áha ǀ vái ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ múhuḥ ǀ ā́ ǀ dāśúṣe ǀ bhūt ǁ
hantā ǀ vṛtram ǀ indraḥ ǀ śūśuvānaḥ ǀ pra ǀ āvīt ǀ nu ǀ vīraḥ ǀ jaritāram ǀ ūtī ǀ
kartā ǀ su-dāse ǀ aha ǀ vai ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ muhuḥ ǀ ā ǀ dāśuṣe ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.020.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.01.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.038
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.