Ṛk 7.20.7
Saṃhitā
यदिं॑द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णं ।
अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥
यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् |
अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ||
yádindra pū́rvo áparāya śíkṣannáyajjyā́yānkánīyaso deṣṇám ǀ
amṛ́ta ítpáryāsīta dūrámā́ citra cítryam bharā rayím naḥ ǁ
yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam |
amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ ||
Padapāṭha
यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शिक्ष॑न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् ।
अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥
यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् ।
अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥
yát ǀ indra ǀ pū́rvaḥ ǀ áparāya ǀ śíkṣan ǀ áyat ǀ jyā́yān ǀ kánīyasaḥ ǀ deṣṇám ǀ
amṛ́taḥ ǀ ít ǀ pári ǀ āsīta ǀ dūrám ǀ ā́ ǀ citra ǀ cítryam ǀ bhara ǀ rayím ǀ naḥ ǁ
yat ǀ indra ǀ pūrvaḥ ǀ aparāya ǀ śikṣan ǀ ayat ǀ jyāyān ǀ kanīyasaḥ ǀ deṣṇam ǀ
amṛtaḥ ǀ it ǀ pari ǀ āsīta ǀ dūram ǀ ā ǀ citra ǀ citryam ǀ bhara ǀ rayim ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.020.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.02.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.043
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.