Ṛk 7.20.1
Saṃhitā
उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावां॒चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।
जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इंद्र॒ एन॑सो म॒हश्चि॑त् ॥
उग्रो जज्ञे वीर्याय स्वधावाञ् चक्रिर् अपो नर्यो यत् करिष्यन् |
जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ||
ugró jajñe vīryā́ya svadhā́vāñcákrirápo náryo yátkariṣyán ǀ
jágmiryúvā nṛṣádanamávobhistrātā́ na índra énaso maháścit ǁ
ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan |
jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit ||
Padapāṭha
उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् ।
जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥
उग्रः । जज्ञे । वीर्याय । स्वधाऽवान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् ।
जग्मिः । युवा । नृऽसदनम् । अवःऽभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥
ugráḥ ǀ jajñe ǀ vīryā́ya ǀ svadhā́-vān ǀ cákriḥ ǀ ápaḥ ǀ náryaḥ ǀ yát ǀ kariṣyán ǀ
jágmiḥ ǀ yúvā ǀ nṛ-sádanam ǀ ávaḥ-bhiḥ ǀ trātā́ ǀ naḥ ǀ índraḥ ǀ énasaḥ ǀ maháḥ ǀ cit ǁ
ugraḥ ǀ jajñe ǀ vīryāya ǀ svadhā-vān ǀ cakriḥ ǀ apaḥ ǀ naryaḥ ǀ yat ǀ kariṣyan ǀ
jagmiḥ ǀ yuvā ǀ nṛ-sadanam ǀ avaḥ-bhiḥ ǀ trātā ǀ naḥ ǀ indraḥ ǀ enasaḥ ǀ mahaḥ ǀ cit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.020.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.01.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.037
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.