Ṛgveda · Maṇḍala 7 · Sūkta 19

Ṛk 7.19.11

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

नू इं॑द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।
उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व |
उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ||

nū́ indra śūra stávamāna ūtī́ bráhmajūtastanvā́ vāvṛdhasva ǀ
úpa no vā́jānmimīhyúpa stī́nyūyám pāta svastíbhiḥ sádā naḥ ǁ

nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva |
upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ ।
उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्मऽजूतः । तन्वा । ववृधस्व ।
उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

nú ǀ indra ǀ śūra ǀ stávamānaḥ ǀ ūtī́ ǀ bráhma-jūtaḥ ǀ tanvā́ ǀ vavṛdhasva ǀ
úpa ǀ naḥ ǀ vā́jān ǀ mimīhi ǀ úpa ǀ stī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

nu ǀ indra ǀ śūra ǀ stavamānaḥ ǀ ūtī ǀ brahma-jūtaḥ ǀ tanvā ǀ vavṛdhasva ǀ
upa ǀ naḥ ǀ vājān ǀ mimīhi ǀ upa ǀ stīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.019.11
Aṣṭaka · Adhyāya · Varga · Ṛk
5.2.30.06
Maṇḍala · Anuvāka · Ṛk
07.02.036
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.19.11

Interpretations

Sāyaṇa

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थ- प्रकाशेऋक्संहिताभाष्ये पञ्चमाष्टके द्वितीयोध्यायः समाप्तः ॥ २ ॥