Ṛk 7.19.9
Saṃhitā
स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसंत्युक्थ॒शास॑ उ॒क्था ।
ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था |
ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ||
sadyáścinnú té maghavannabhíṣṭau náraḥ śaṃsantyukthaśā́sa ukthā́ ǀ
yé te hávebhirví paṇī́m̐rádāśannasmā́nvṛṇīṣva yújyāya tásmai ǁ
sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā |
ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai ||
Padapāṭha
स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशासः॑ । उ॒क्था ।
ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥
सद्यः । चित् । नु । ते । मघऽवन् । अभिष्टौ । नरः । शंसन्ति । उक्थऽशासः । उक्था ।
ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥
sadyáḥ ǀ cit ǀ nú ǀ te ǀ magha-van ǀ abhíṣṭau ǀ náraḥ ǀ śaṃsanti ǀ uktha-śā́saḥ ǀ ukthā́ ǀ
yé ǀ te ǀ hávebhiḥ ǀ ví ǀ paṇī́n ǀ ádāśan ǀ asmā́n ǀ vṛṇīṣva ǀ yújyāya ǀ tásmai ǁ
sadyaḥ ǀ cit ǀ nu ǀ te ǀ magha-van ǀ abhiṣṭau ǀ naraḥ ǀ śaṃsanti ǀ uktha-śāsaḥ ǀ ukthā ǀ
ye ǀ te ǀ havebhiḥ ǀ vi ǀ paṇīn ǀ adāśan ǀ asmān ǀ vṛṇīṣva ǀ yujyāya ǀ tasmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.019.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.30.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.034
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.