Ṛk 7.36.2
Saṃhitā
इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।
इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥
इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः |
इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ||
imā́m vām mitrāvaruṇā suvṛktímíṣam ná kṛṇve asurā návīyaḥ ǀ
inó vāmanyáḥ padavī́rádabdho jánam ca mitró yatati bruvāṇáḥ ǁ
imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ |
ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ ||
Padapāṭha
इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः ।
इ॒नः । वा॒म् । अ॒न्यः । प॒द॒ऽवीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥
इमाम् । वाम् । मित्रावरुणा । सुऽवृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः ।
इनः । वाम् । अन्यः । पदऽवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः ॥
imā́m ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktím ǀ íṣam ǀ ná ǀ kṛṇve ǀ asurā ǀ návīyaḥ ǀ
ináḥ ǀ vām ǀ anyáḥ ǀ pada-vī́ḥ ǀ ádabdhaḥ ǀ jánam ǀ ca ǀ mitráḥ ǀ yatati ǀ bruvāṇáḥ ǁ
imām ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktim ǀ iṣam ǀ na ǀ kṛṇve ǀ asurā ǀ navīyaḥ ǀ
inaḥ ǀ vām ǀ anyaḥ ǀ pada-vīḥ ǀ adabdhaḥ ǀ janam ǀ ca ǀ mitraḥ ǀ yatati ǀ bruvāṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.036.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.01.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.042
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.