Ṛgveda · Maṇḍala 7 · Sūkta 36

Ṛk 7.36.8

Viśvedevās · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रं ।
भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिं ॥

प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् |
भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ||

prá vo mahī́marámatim kṛṇudhvam prá pūṣáṇam vidathyám ná vīrám ǀ
bhágam dhiyo’vitā́ram no asyā́ḥ sātáu vā́jam rātiṣā́cam púraṃdhim ǁ

pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram |
bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim ||

Padapāṭha

प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् ।
भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । सा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥

प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् ।
भगम् । धियः । अवितारम् । नः । अस्याः । सातौ । वाजम् । रातिऽसाचम् । पुरम्ऽधिम् ॥

prá ǀ vaḥ ǀ mahī́m ǀ arámatim ǀ kṛṇudhvam ǀ prá ǀ pūṣáṇam ǀ vidathyám ǀ ná ǀ vīrám ǀ
bhágam ǀ dhiyáḥ ǀ avitā́ram ǀ naḥ ǀ asyā́ḥ ǀ sātáu ǀ vā́jam ǀ rāti-sā́cam ǀ púram-dhim ǁ

pra ǀ vaḥ ǀ mahīm ǀ aramatim ǀ kṛṇudhvam ǀ pra ǀ pūṣaṇam ǀ vidathyam ǀ na ǀ vīram ǀ
bhagam ǀ dhiyaḥ ǀ avitāram ǀ naḥ ǀ asyāḥ ǀ sātau ǀ vājam ǀ rāti-sācam ǀ puram-dhim ǁ

References

Maṇḍala · Sūkta · Ṛk
07.036.08
Aṣṭaka · Adhyāya · Varga · Ṛk
5.4.02.03
Maṇḍala · Anuvāka · Ṛk
07.03.048
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.36.8

Interpretations

Sāyaṇa

हे स्तोतारो वो यूयं अरमतिं उपरतिरहितां महीं महतीं भूमिं प्रकृणुध्वं आह्वयत तथा विदथ्यं यज्ञार्हं वीरं न सर्वेषां प्रेरकं च पूषणं एतन्नामकं देवं प्रकृणुध्वं तथा अस्याधियः नोस्मदीयस्यास्यकर्मणः अवितारं रक्षितारं भगं देवं च आह्वयत अपि च सातौ अस्मदीये यज्ञे युद्धेवा वाजं ऋभूणामन्यतमं देवं आह्वयत कीदृशं वाजं रातिषाचं दानसेचकं पुरंधिं पुराणां धारयितारं ॥ ८ ॥