Ṛk 7.36.1
Saṃhitā
प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः ।
वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥
प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः |
वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ||
prá bráhmaitu sádanādṛtásya ví raśmíbhiḥ sasṛje sū́ryo gā́ḥ ǀ
ví sā́nunā pṛthivī́ sasra urvī́ pṛthú prátīkamádhyédhe agníḥ ǁ
pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ |
vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ ||
Padapāṭha
प्र । ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ । वि । र॒श्मिऽभिः॑ । स॒सृ॒जे॒ । सूर्यः॑ । गाः ।
वि । सानु॑ना । पृ॒थि॒वी । स॒स्रे॒ । उ॒र्वी । पृ॒थु । प्रती॑कम् । अधि॑ । आ । ई॒धे॒ । अ॒ग्निः ॥
प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मिऽभिः । ससृजे । सूर्यः । गाः ।
वि । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः ॥
prá ǀ bráhma ǀ etu ǀ sádanāt ǀ ṛtásya ǀ ví ǀ raśmí-bhiḥ ǀ sasṛje ǀ sū́ryaḥ ǀ gā́ḥ ǀ
ví ǀ sā́nunā ǀ pṛthivī́ ǀ sasre ǀ urvī́ ǀ pṛthú ǀ prátīkam ǀ ádhi ǀ ā́ ǀ īdhe ǀ agníḥ ǁ
pra ǀ brahma ǀ etu ǀ sadanāt ǀ ṛtasya ǀ vi ǀ raśmi-bhiḥ ǀ sasṛje ǀ sūryaḥ ǀ gāḥ ǀ
vi ǀ sānunā ǀ pṛthivī ǀ sasre ǀ urvī ǀ pṛthu ǀ pratīkam ǀ adhi ǀ ā ǀ īdhe ǀ agniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.036.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.01.01
- Maṇḍala · Anuvāka · Ṛk
- 07.03.041
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.