Ṛk 7.82.2
Saṃhitā
स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हांता॒विंद्रा॒वरु॑णा म॒हाव॑सू ।
विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥
सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू |
विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ||
samrā́ḷanyáḥ svarā́ḷanyá ucyate vām mahā́ntāvíndrāváruṇā mahā́vasū ǀ
víśve devā́saḥ paramé vyomani sám vāmójo vṛṣaṇā sám bálam dadhuḥ ǁ
samrāḷ anyaḥ svarāḷ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū |
viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ ||
Padapāṭha
स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू ।
विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥
सम्ऽराट् । अन्यः । स्वऽराट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसू इति महाऽवसू ।
विश्वे । देवासः । परमे । विऽओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः ॥
sam-rā́ṭ ǀ anyáḥ ǀ sva-rā́ṭ ǀ anyáḥ ǀ ucyate ǀ vām ǀ mahā́ntau ǀ índrāváruṇā ǀ mahā́vasū íti mahā́-vasū ǀ
víśve ǀ devā́saḥ ǀ paramé ǀ ví-omani ǀ sám ǀ vām ǀ ójaḥ ǀ vṛṣaṇā ǀ sám ǀ bálam ǀ dadhuḥ ǁ
sam-rāṭ ǀ anyaḥ ǀ sva-rāṭ ǀ anyaḥ ǀ ucyate ǀ vām ǀ mahāntau ǀ indrāvaruṇā ǀ mahāvasū iti mahā-vasū ǀ
viśve ǀ devāsaḥ ǀ parame ǀ vi-omani ǀ sam ǀ vām ǀ ojaḥ ǀ vṛṣaṇā ǀ sam ǀ balam ǀ dadhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.082.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.02.02
- Maṇḍala · Anuvāka · Ṛk
- 07.05.064
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.