Ṛk 7.82.6
Saṃhitā
म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वं ।
अजा॑मिम॒न्यः श्न॒थयं॑त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥
महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् |
अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ||
mahé śulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvámasya yátsvám ǀ
ájāmimanyáḥ śnatháyantamā́tiraddabhrébhiranyáḥ prá vṛṇoti bhū́yasaḥ ǁ
mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam |
ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ ||
Padapāṭha
म॒हे । शु॒ल्काय॑ । वरु॑णस्य । नु । त्वि॒षे । ओजः॑ । मि॒मा॒ते॒ इति॑ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।
अजा॑मिम् । अ॒न्यः । श्न॒थय॑न्तम् । आ । अति॑रत् । द॒भ्रेभिः॑ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय॑सः ॥
महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमाते इति । ध्रुवम् । अस्य । यत् । स्वम् ।
अजामिम् । अन्यः । श्नथयन्तम् । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोति । भूयसः ॥
mahé ǀ śulkā́ya ǀ váruṇasya ǀ nú ǀ tviṣé ǀ ójaḥ ǀ mimāte íti ǀ dhruvám ǀ asya ǀ yát ǀ svám ǀ
ájāmim ǀ anyáḥ ǀ śnatháyantam ǀ ā́ ǀ átirat ǀ dabhrébhiḥ ǀ anyáḥ ǀ prá ǀ vṛṇoti ǀ bhū́yasaḥ ǁ
mahe ǀ śulkāya ǀ varuṇasya ǀ nu ǀ tviṣe ǀ ojaḥ ǀ mimāte iti ǀ dhruvam ǀ asya ǀ yat ǀ svam ǀ
ajāmim ǀ anyaḥ ǀ śnathayantam ǀ ā ǀ atirat ǀ dabhrebhiḥ ǀ anyaḥ ǀ pra ǀ vṛṇoti ǀ bhūyasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.082.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.03.01
- Maṇḍala · Anuvāka · Ṛk
- 07.05.068
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.