Ṛk 7.82.8
Saṃhitā
अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।
यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमिं॑द्रावरुणा॒ नि य॑च्छतं ॥
अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः |
युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ||
arvā́ṅnarā dáivyenā́vasā́ gatam śṛṇutám hávam yádi me jújoṣathaḥ ǀ
yuvórhí sakhyámutá vā yádā́pyam mārḍīkámindrāvaruṇā ní yacchatam ǁ
arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam ||
Padapāṭha
अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः ।
यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥
अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः ।
युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम् ॥
arvā́k ǀ narā ǀ dáivyena ǀ ávasā ǀ ā́ ǀ gatam ǀ śṛṇutám ǀ hávam ǀ yádi ǀ me ǀ jújoṣathaḥ ǀ
yuvóḥ ǀ hí ǀ sakhyám ǀ utá ǀ vā ǀ yát ǀ ā́pyam ǀ mārḍīkám ǀ indrāvaruṇā ǀ ní ǀ yacchatam ǁ
arvāk ǀ narā ǀ daivyena ǀ avasā ǀ ā ǀ gatam ǀ śṛṇutam ǀ havam ǀ yadi ǀ me ǀ jujoṣathaḥ ǀ
yuvoḥ ǀ hi ǀ sakhyam ǀ uta ǀ vā ǀ yat ǀ āpyam ǀ mārḍīkam ǀ indrāvaruṇā ǀ ni ǀ yacchatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.082.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.03.03
- Maṇḍala · Anuvāka · Ṛk
- 07.05.070
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.