Ṛk 7.9.2
Saṃhitā
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः ।
होता॑ मं॒द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणां॑ ॥
स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः |
होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ||
sá sukráturyó ví dúraḥ paṇīnā́m punānó arkám purubhójasam naḥ ǀ
hótā mandró viśā́m dámūnāstirástámo dadṛśe rāmyā́ṇām ǁ
sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ |
hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām ||
Padapāṭha
सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ ।
होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥
सः । सुऽक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुऽभोजसम् । नः ।
होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥
sáḥ ǀ su-krátuḥ ǀ yáḥ ǀ ví ǀ dúraḥ ǀ paṇīnā́m ǀ punānáḥ ǀ arkám ǀ puru-bhójasam ǀ naḥ ǀ
hótā ǀ mandráḥ ǀ viśā́m ǀ dámūnāḥ ǀ tiráḥ ǀ támaḥ ǀ dadṛśe ǀ rāmyā́ṇām ǁ
saḥ ǀ su-kratuḥ ǀ yaḥ ǀ vi ǀ duraḥ ǀ paṇīnām ǀ punānaḥ ǀ arkam ǀ puru-bhojasam ǀ naḥ ǀ
hotā ǀ mandraḥ ǀ viśām ǀ damūnāḥ ǀ tiraḥ ǀ tamaḥ ǀ dadṛśe ǀ rāmyāṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.009.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.12.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.088
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.