Ṛk 7.18.24
Saṃhitā
यस्य॒ श्रवो॒ रोद॑सी अं॒तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।
स॒प्तेदिंद्रं॒ न स्र॒वतो॑ गृणंति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥
यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता |
सप्तेद् इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ||
yásya śrávo ródasī antárurvī́ śīrṣṇéśīrṣṇe vibabhā́jā vibhaktā́ ǀ
saptédíndram ná sraváto gṛṇanti ní yudhyāmadhímaśiśādabhī́ke ǁ
yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke ||
Padapāṭha
यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता ।
स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके॑ ॥
यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णेऽशीर्ष्णे । विऽबभाज । विऽभक्ता ।
सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । अशिशात् । अभीके ॥
yásya ǀ śrávaḥ ǀ ródasī íti ǀ antáḥ ǀ urvī́ íti ǀ śīrṣṇé-śīrṣṇe ǀ vi-babhā́ja ǀ vi-bhaktā́ ǀ
saptá ǀ ít ǀ índram ǀ ná ǀ sravátaḥ ǀ gṛṇanti ǀ ní ǀ yudhyāmadhím ǀ aśiśāt ǀ abhī́ke ǁ
yasya ǀ śravaḥ ǀ rodasī iti ǀ antaḥ ǀ urvī iti ǀ śīrṣṇe-śīrṣṇe ǀ vi-babhāja ǀ vi-bhaktā ǀ
sapta ǀ it ǀ indram ǀ na ǀ sravataḥ ǀ gṛṇanti ǀ ni ǀ yudhyāmadhim ǀ aśiśāt ǀ abhīke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.24
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.28.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.024
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.