Ṛk 7.18.18
Saṃhitā
शश्वं॑तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विंद॒ रंधिं॑ ।
मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिंद्र ॥
शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् |
मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ||
śáśvanto hí śátravo rāradhúṣṭe bhedásya cicchárdhato vinda rándhim ǀ
mártām̐ énaḥ stuvató yáḥ kṛṇóti tigmám tásminní jahi vájramindra ǁ
śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim |
martāṃ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra ||
Padapāṭha
शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् ।
मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥
शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् ।
मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र ॥
śáśvantaḥ ǀ hí ǀ śátravaḥ ǀ raradhúḥ ǀ te ǀ bhedásya ǀ cit ǀ śárdhataḥ ǀ vinda ǀ rándhim ǀ
mártān ǀ énaḥ ǀ stuvatáḥ ǀ yáḥ ǀ kṛṇóti ǀ tigmám ǀ tásmin ǀ ní ǀ jahi ǀ vájram ǀ indra ǁ
śaśvantaḥ ǀ hi ǀ śatravaḥ ǀ raradhuḥ ǀ te ǀ bhedasya ǀ cit ǀ śardhataḥ ǀ vinda ǀ randhim ǀ
martān ǀ enaḥ ǀ stuvataḥ ǀ yaḥ ǀ kṛṇoti ǀ tigmam ǀ tasmin ǀ ni ǀ jahi ǀ vajram ǀ indra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.27.03
- Maṇḍala · Anuvāka · Ṛk
- 07.02.018
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.