Ṛk 7.18.6
Saṃhitā
पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।
श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥
पुरोऌआ इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव |
श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ||
puroḷā́ ítturváśo yákṣurāsīdrāyé mátsyāso níśitā ápīva ǀ
śruṣṭím cakrurbhṛ́gavo druhyávaśca sákhā sákhāyamataradvíṣūcoḥ ǁ
puroḷā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva |
śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ ||
Padapāṭha
पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव ।
श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥
पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निऽशिताः । अपिऽइव ।
श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः ॥
puroḷā́ḥ ǀ ít ǀ turváśaḥ ǀ yákṣuḥ ǀ āsīt ǀ rāyé ǀ mátsyāsaḥ ǀ ní-śitāḥ ǀ ápi-iva ǀ
śruṣṭím ǀ cakruḥ ǀ bhṛ́gavaḥ ǀ druhyávaḥ ǀ ca ǀ sákhā ǀ sákhāyam ǀ atarat ǀ víṣūcoḥ ǁ
puroḷāḥ ǀ it ǀ turvaśaḥ ǀ yakṣuḥ ǀ āsīt ǀ rāye ǀ matsyāsaḥ ǀ ni-śitāḥ ǀ api-iva ǀ
śruṣṭim ǀ cakruḥ ǀ bhṛgavaḥ ǀ druhyavaḥ ǀ ca ǀ sakhā ǀ sakhāyam ǀ atarat ǀ viṣūcoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.25.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.006
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.