Ṛk 7.18.1
Saṃhitā
त्वे ह॒ यत्पि॒तर॑श्चिन्न इंद्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।
त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥
त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् |
त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ||
tvé ha yátpitáraścinna indra víśvā vāmā́ jaritā́ro ásanvan ǀ
tvé gā́vaḥ sudúghāstvé hyáśvāstvám vásu devayaté vániṣṭhaḥ ǁ
tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan |
tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ ||
Padapāṭha
त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् ।
त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥
त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् ।
त्वे इति । गावः । सुऽदुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देवऽयते । वनिष्ठः ॥
tvé íti ǀ ha ǀ yát ǀ pitáraḥ ǀ cit ǀ naḥ ǀ indra ǀ víśvā ǀ vāmā́ ǀ jaritā́raḥ ǀ ásanvan ǀ
tvé íti ǀ gā́vaḥ ǀ su-dúghāḥ ǀ tvé íti ǀ hí ǀ áśvāḥ ǀ tvám ǀ vásu ǀ deva-yaté ǀ vániṣṭhaḥ ǁ
tve iti ǀ ha ǀ yat ǀ pitaraḥ ǀ cit ǀ naḥ ǀ indra ǀ viśvā ǀ vāmā ǀ jaritāraḥ ǀ asanvan ǀ
tve iti ǀ gāvaḥ ǀ su-dughāḥ ǀ tve iti ǀ hi ǀ aśvāḥ ǀ tvam ǀ vasu ǀ deva-yate ǀ vaniṣṭhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.24.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.