Ṛk 7.18.20
Saṃhitā
न त॑ इंद्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ ।
देव॑कं चिन्मान्यमा॒नं ज॑घं॒थाव॒ त्मना॑ बृह॒तः शंब॑रं भेत् ॥
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः |
देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ||
ná ta indra sumatáyo ná rā́yaḥ saṃcákṣe pū́rvā uṣáso ná nū́tnāḥ ǀ
dévakam cinmānyamānám jaghanthā́va tmánā bṛhatáḥ śámbaram bhet ǁ
na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet ||
Padapāṭha
न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ ।
देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥
न । ते । इन्द्र । सुऽमतयः । न । रायः । सम्ऽचक्षे । पूर्वाः । उषसः । न । नूत्नाः ।
देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत् ॥
ná ǀ te ǀ indra ǀ su-matáyaḥ ǀ ná ǀ rā́yaḥ ǀ sam-cákṣe ǀ pū́rvāḥ ǀ uṣásaḥ ǀ ná ǀ nū́tnāḥ ǀ
dévakam ǀ cit ǀ mānyamānám ǀ jaghantha ǀ áva ǀ tmánā ǀ bṛhatáḥ ǀ śámbaram ǀ bhet ǁ
na ǀ te ǀ indra ǀ su-matayaḥ ǀ na ǀ rāyaḥ ǀ sam-cakṣe ǀ pūrvāḥ ǀ uṣasaḥ ǀ na ǀ nūtnāḥ ǀ
devakam ǀ cit ǀ mānyamānam ǀ jaghantha ǀ ava ǀ tmanā ǀ bṛhataḥ ǀ śambaram ǀ bhet ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.27.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.