Ṛk 7.18.4
Saṃhitā
धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।
त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इंद्रः॑ सुम॒तिं गं॒त्वच्छ॑ ॥
धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः |
त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ||
dhenúm ná tvā sūyávase dúdukṣannúpa bráhmāṇi sasṛje vásiṣṭhaḥ ǀ
tvā́mínme gópatim víśva āhā́ na índraḥ sumatím gantváccha ǁ
dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ |
tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha ||
Padapāṭha
धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः ।
त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥
धेनुम् । न । त्वा । सुऽयवसे । दुधुक्षन् । उप । ब्रह्माणि । ससृजे । वसिष्ठः ।
त्वाम् । इत् । मे । गोऽपतिम् । विश्वः । आह । आ । नः । इन्द्रः । सुऽमतिम् । गन्तु । अच्छ ॥
dhenúm ǀ ná ǀ tvā ǀ su-yávase ǀ dúdhukṣan ǀ úpa ǀ bráhmāṇi ǀ sasṛje ǀ vásiṣṭhaḥ ǀ
tvā́m ǀ ít ǀ me ǀ gó-patim ǀ víśvaḥ ǀ āha ǀ ā́ ǀ naḥ ǀ índraḥ ǀ su-matím ǀ gantu ǀ áccha ǁ
dhenum ǀ na ǀ tvā ǀ su-yavase ǀ dudhukṣan ǀ upa ǀ brahmāṇi ǀ sasṛje ǀ vasiṣṭhaḥ ǀ
tvām ǀ it ǀ me ǀ go-patim ǀ viśvaḥ ǀ āha ǀ ā ǀ naḥ ǀ indraḥ ǀ su-matim ǀ gantu ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.24.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.