Ṛk 7.18.14
Saṃhitā
नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा॑ ।
ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिंद्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥
नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा |
षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ||
ní gavyávó’navo druhyávaśca ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭ sahásrā ǀ
ṣaṣṭírvīrā́so ádhi ṣáḍduvoyú víśvédíndrasya vīryā́ kṛtā́ni ǁ
ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni ||
Padapāṭha
नि । ग॒व्यवः॑ । अन॑वः । द्रु॒ह्यवः॑ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा॑ ।
ष॒ष्टिः । वी॒रासः॑ । अधि॑ । षट् । दु॒वः॒ऽयु । विश्वा॑ । इत् । इन्द्र॑स्य । वी॒र्या॑ । कृ॒तानि॑ ॥
नि । गव्यवः । अनवः । द्रुह्यवः । च । षष्टिः । शता । सुसुपुः । षट् । सहस्रा ।
षष्टिः । वीरासः । अधि । षट् । दुवःऽयु । विश्वा । इत् । इन्द्रस्य । वीर्या । कृतानि ॥
ní ǀ gavyávaḥ ǀ ánavaḥ ǀ druhyávaḥ ǀ ca ǀ ṣaṣṭíḥ ǀ śatā́ ǀ susupuḥ ǀ ṣáṭ ǀ sahásrā ǀ
ṣaṣṭíḥ ǀ vīrā́saḥ ǀ ádhi ǀ ṣáṭ ǀ duvaḥ-yú ǀ víśvā ǀ ít ǀ índrasya ǀ vīryā́ ǀ kṛtā́ni ǁ
ni ǀ gavyavaḥ ǀ anavaḥ ǀ druhyavaḥ ǀ ca ǀ ṣaṣṭiḥ ǀ śatā ǀ susupuḥ ǀ ṣaṭ ǀ sahasrā ǀ
ṣaṣṭiḥ ǀ vīrāsaḥ ǀ adhi ǀ ṣaṭ ǀ duvaḥ-yu ǀ viśvā ǀ it ǀ indrasya ǀ vīryā ǀ kṛtāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.26.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.014
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.