Ṛk 7.18.2
Saṃhitā
राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।
पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥
राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् |
पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ||
rā́jeva hí jánibhiḥ kṣéṣyevā́va dyúbhirabhí vidúṣkavíḥ sán ǀ
piśā́ gíro maghavangóbhiráśvaistvāyatáḥ śiśīhi rāyé asmā́n ǁ
rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san |
piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān ||
Padapāṭha
राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् ।
पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥
राजाऽइव । हि । जनिऽभिः । क्षेषि । एव । अव । द्युऽभिः । अभि । विदुः । कविः । सन् ।
पिशा । गिरः । मघऽवन् । गोभिः । अश्वैः । त्वाऽयतः । शिशीहि । राये । अस्मान् ॥
rā́jā-iva ǀ hí ǀ jáni-bhiḥ ǀ kṣéṣi ǀ evá ǀ áva ǀ dyú-bhiḥ ǀ abhí ǀ vidúḥ ǀ kavíḥ ǀ sán ǀ
piśā́ ǀ gíraḥ ǀ magha-van ǀ góbhiḥ ǀ áśvaiḥ ǀ tvā-yatáḥ ǀ śiśīhi ǀ rāyé ǀ asmā́n ǁ
rājā-iva ǀ hi ǀ jani-bhiḥ ǀ kṣeṣi ǀ eva ǀ ava ǀ dyu-bhiḥ ǀ abhi ǀ viduḥ ǀ kaviḥ ǀ san ǀ
piśā ǀ giraḥ ǀ magha-van ǀ gobhiḥ ǀ aśvaiḥ ǀ tvā-yataḥ ǀ śiśīhi ǀ rāye ǀ asmān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.24.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.002
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.