Ṛk 7.18.11
Saṃhitā
एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ ।
द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिंद्र॑ एषां ॥
एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः |
दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ||
ékam ca yó viṃśatím ca śravasyā́ vaikarṇáyorjánānrā́jā nyástaḥ ǀ
dasmó ná sádmanní śiśāti barhíḥ śū́raḥ sárgamakṛṇodíndra eṣām ǁ
ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ |
dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām ||
Padapāṭha
एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्तः॑ ।
द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥
एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तरित्यस्तः ।
दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम् ॥
ékam ǀ ca ǀ yáḥ ǀ viṃśatím ǀ ca ǀ śravasyā́ ǀ vaikarṇáyoḥ ǀ jánān ǀ rā́jā ǀ ní ǀ ástarityástaḥ ǀ
dasmáḥ ǀ ná ǀ sádman ǀ ní ǀ śiśāti ǀ barhíḥ ǀ śū́raḥ ǀ sárgam ǀ akṛṇot ǀ índraḥ ǀ eṣām ǁ
ekam ǀ ca ǀ yaḥ ǀ viṃśatim ǀ ca ǀ śravasyā ǀ vaikarṇayoḥ ǀ janān ǀ rājā ǀ ni ǀ astarityastaḥ ǀ
dasmaḥ ǀ na ǀ sadman ǀ ni ǀ śiśāti ǀ barhiḥ ǀ śūraḥ ǀ sargam ǀ akṛṇot ǀ indraḥ ǀ eṣām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.26.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.011
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.