Ṛk 7.38.3
Saṃhitā
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णंति॑ ।
स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥
अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति |
स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ||
ápi ṣṭutáḥ savitā́ devó astu yámā́ cidvíśve vásavo gṛṇánti ǀ
sá naḥ stómānnamasyáścáno dhādvíśvebhiḥ pātu pāyúbhirní sūrī́n ǁ
api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti |
sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn ||
Padapāṭha
अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।
सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥
अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति ।
सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुऽभिः । नि । सूरीन् ॥
ápi ǀ stutáḥ ǀ savitā́ ǀ deváḥ ǀ astu ǀ yám ǀ ā́ ǀ cit ǀ víśve ǀ vásavaḥ ǀ gṛṇánti ǀ
sáḥ ǀ naḥ ǀ stómān ǀ namasyáḥ ǀ cánaḥ ǀ dhāt ǀ víśvebhiḥ ǀ pātu ǀ pāyú-bhiḥ ǀ ní ǀ sūrī́n ǁ
api ǀ stutaḥ ǀ savitā ǀ devaḥ ǀ astu ǀ yam ǀ ā ǀ cit ǀ viśve ǀ vasavaḥ ǀ gṛṇanti ǀ
saḥ ǀ naḥ ǀ stomān ǀ namasyaḥ ǀ canaḥ ǀ dhāt ǀ viśvebhiḥ ǀ pātu ǀ pāyu-bhiḥ ǀ ni ǀ sūrīn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.038.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.05.03
- Maṇḍala · Anuvāka · Ṛk
- 07.03.060
- Devatā देवता
- 1-6: Savitṛ; 7, 8: Vājinaḥ
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.