Ṛk 7.35.4
Saṃhitā
शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शं ।
शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ संतु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥
शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् |
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ||
śám no agnírjyótiranīko astu śám no mitrā́váruṇāvaśvínā śám ǀ
śám naḥ sukṛ́tām sukṛtā́ni santu śám na iṣiró abhí vātu vā́taḥ ǁ
śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam |
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||
Padapāṭha
शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् ।
शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥
शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् ।
शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥
śám ǀ naḥ ǀ agníḥ ǀ jyótiḥ-anīkaḥ ǀ astu ǀ śám ǀ naḥ ǀ mitrā́váruṇau ǀ aśvínā ǀ śám ǀ
śám ǀ naḥ ǀ su-kṛ́tām ǀ su-kṛtā́ni ǀ santu ǀ śám ǀ naḥ ǀ iṣiráḥ ǀ abhí ǀ vātu ǀ vā́taḥ ǁ
śam ǀ naḥ ǀ agniḥ ǀ jyotiḥ-anīkaḥ ǀ astu ǀ śam ǀ naḥ ǀ mitrāvaruṇau ǀ aśvinā ǀ śam ǀ
śam ǀ naḥ ǀ su-kṛtām ǀ su-kṛtāni ǀ santu ǀ śam ǀ naḥ ǀ iṣiraḥ ǀ abhi ǀ vātu ǀ vātaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.035.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.28.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.029
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.