Ṛk 7.35.7
Saṃhitā
शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ संतु य॒ज्ञाः ।
शं नः॒ स्वरू॑णां मि॒तयो॑ भवंतु॒ शं नः॑ प्र॒स्वः१॒॑ शम्व॑स्तु॒ वेदिः॑ ॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः |
शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् व् अस्तु वेदिः ||
śám naḥ sómo bhavatu bráhma śám naḥ śám no grā́vāṇaḥ śámu santu yajñā́ḥ ǀ
śám naḥ svárūṇām mitáyo bhavantu śám naḥ prasváḥ śámvastu védiḥ ǁ
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ |
śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ ||
Padapāṭha
शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः ।
शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥
शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।
शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रऽस्वः । शम् । ऊं इति । अस्तु । वेदिः ॥
śám ǀ naḥ ǀ sómaḥ ǀ bhavatu ǀ bráhma ǀ śám ǀ naḥ ǀ śám ǀ naḥ ǀ grā́vāṇaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ yajñā́ḥ ǀ
śám ǀ naḥ ǀ svárūṇām ǀ mitáyaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ pra-sváḥ ǀ śám ǀ ūṃ íti ǀ astu ǀ védiḥ ǁ
śam ǀ naḥ ǀ somaḥ ǀ bhavatu ǀ brahma ǀ śam ǀ naḥ ǀ śam ǀ naḥ ǀ grāvāṇaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ yajñāḥ ǀ
śam ǀ naḥ ǀ svarūṇām ǀ mitayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ pra-svaḥ ǀ śam ǀ ūṃ iti ǀ astu ǀ vediḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.035.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.29.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.032
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.