Ṛk 7.35.3
Saṃhitā
शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ ।
शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि संतु ॥
शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः |
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ||
śám no dhātā́ śámu dhartā́ no astu śám na urūcī́ bhavatu svadhā́bhiḥ ǀ
śám ródasī bṛhatī́ śám no ádriḥ śám no devā́nām suhávāni santu ǁ
śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||
Padapāṭha
शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ ।
शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥
शम् । नः । धाता । शम् । ऊं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः ।
शम् । रोदसी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुऽहवानि । सन्तु ॥
śám ǀ naḥ ǀ dhātā́ ǀ śám ǀ ūṃ íti ǀ dhartā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ urūcī́ ǀ bhavatu ǀ svadhā́bhiḥ ǀ
śám ǀ ródasī íti ǀ bṛhatī́ íti ǀ śám ǀ naḥ ǀ ádriḥ ǀ śám ǀ naḥ ǀ devā́nām ǀ su-hávāni ǀ santu ǁ
śam ǀ naḥ ǀ dhātā ǀ śam ǀ ūṃ iti ǀ dhartā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ urūcī ǀ bhavatu ǀ svadhābhiḥ ǀ
śam ǀ rodasī iti ǀ bṛhatī iti ǀ śam ǀ naḥ ǀ adriḥ ǀ śam ǀ naḥ ǀ devānām ǀ su-havāni ǀ santu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.035.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.28.03
- Maṇḍala · Anuvāka · Ṛk
- 07.03.028
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.