Ṛgveda · Maṇḍala 7 · Sūkta 35

Ṛk 7.35.13

Viśvedevās · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्यः१॒॑ शं स॑मु॒द्रः ।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥

शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः |
शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ||

śám no ajá ékapāddevó astu śám nó’hirbudhnyáḥ śám samudráḥ ǀ
śám no apā́m nápātperúrastu śám naḥ pṛ́śnirbhavatu devágopā ǁ

śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ |
śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā ||

Padapāṭha

शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः ।
शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः ।
शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवऽगोपा ॥

śám ǀ naḥ ǀ ajáḥ ǀ éka-pāt ǀ deváḥ ǀ astu ǀ śám ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śám ǀ samudráḥ ǀ
śám ǀ naḥ ǀ apā́m ǀ nápāt ǀ perúḥ ǀ astu ǀ śám ǀ naḥ ǀ pṛ́śniḥ ǀ bhavatu ǀ devá-gopā ǁ

śam ǀ naḥ ǀ ajaḥ ǀ eka-pāt ǀ devaḥ ǀ astu ǀ śam ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śam ǀ samudraḥ ǀ
śam ǀ naḥ ǀ apām ǀ napāt ǀ peruḥ ǀ astu ǀ śam ǀ naḥ ǀ pṛśniḥ ǀ bhavatu ǀ deva-gopā ǁ

References

Maṇḍala · Sūkta · Ṛk
07.035.13
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.30.03
Maṇḍala · Anuvāka · Ṛk
07.03.038
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.35.13

Interpretations

Ralph T. H. Griffith

May Aja-Ekapād, the God, be gracious, gracious the Dragon of the Deep, and Ocean. Gracious be he the swelling Child of Waters, gracious be Pṛśni who hath Gods to guard her.