Ṛk 7.35.5
Saṃhitā
शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शमं॒तरि॑क्षं दृ॒शये॑ नो अस्तु ।
शं न॒ ओष॑धीर्व॒निनो॑ भवंतु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥
शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु |
शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ||
śám no dyā́vāpṛthivī́ pūrváhūtau śámantárikṣam dṛśáye no astu ǀ
śám na óṣadhīrvaníno bhavantu śám no rájasaspátirastu jiṣṇúḥ ǁ
śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu |
śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ ||
Padapāṭha
शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ ।
शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥
शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु ।
शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥
śám ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ pūrvá-hūtau ǀ śám ǀ antárikṣam ǀ dṛśáye ǀ naḥ ǀ astu ǀ
śám ǀ naḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ rájasaḥ ǀ pátiḥ ǀ astu ǀ jiṣṇúḥ ǁ
śam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ pūrva-hūtau ǀ śam ǀ antarikṣam ǀ dṛśaye ǀ naḥ ǀ astu ǀ
śam ǀ naḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ rajasaḥ ǀ patiḥ ǀ astu ǀ jiṣṇuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.035.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.28.05
- Maṇḍala · Anuvāka · Ṛk
- 07.03.030
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.