Ṛk 7.35.9
Saṃhitā
शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवंतु म॒रुतः॑ स्व॒र्काः ।
शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥
शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः |
शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् व् अस्तु वायुः ||
śám no áditirbhavatu vratébhiḥ śám no bhavantu marútaḥ svarkā́ḥ ǀ
śám no víṣṇuḥ śámu pūṣā́ no astu śám no bhavítram śámvastu vāyúḥ ǁ
śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ ||
Padapāṭha
शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः ।
शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥
शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः ।
शम् । नः । विष्णुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ऊं इति । अस्तु । वायुः ॥
śám ǀ naḥ ǀ áditiḥ ǀ bhavatu ǀ vratébhiḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ marútaḥ ǀ su-arkā́ḥ ǀ
śám ǀ naḥ ǀ víṣṇuḥ ǀ śám ǀ ūṃ íti ǀ pūṣā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ bhavítram ǀ śám ǀ ūṃ íti ǀ astu ǀ vāyúḥ ǁ
śam ǀ naḥ ǀ aditiḥ ǀ bhavatu ǀ vratebhiḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ marutaḥ ǀ su-arkāḥ ǀ
śam ǀ naḥ ǀ viṣṇuḥ ǀ śam ǀ ūṃ iti ǀ pūṣā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ bhavitram ǀ śam ǀ ūṃ iti ǀ astu ǀ vāyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.035.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.29.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.034
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.