Ṛk 7.37.7
Saṃhitā
अ॒भि यं दे॒वी निर्ऋ॑तिश्चि॒दीशे॒ नक्षं॑त॒ इंद्रं॑ श॒रदः॑ सु॒पृक्षः॑ ।
उप॑ त्रिबं॒धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णवं॑त॒ मर्ताः॑ ॥
अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः |
उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ||
abhí yám devī́ nírṛtiścidī́śe nákṣanta índram śarádaḥ supṛ́kṣaḥ ǀ
úpa tribandhúrjarádaṣṭimetyásvaveśam yám kṛṇávanta mártāḥ ǁ
abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ |
upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ ||
Padapāṭha
अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ ।
उप॑ । त्रि॒ऽब॒न्धुः । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥
अभि । यम् । देवी । निःऽऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सुऽपृक्षः ।
उप । त्रिऽबन्धुः । जरत्ऽअष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः ॥
abhí ǀ yám ǀ devī́ ǀ níḥ-ṛtiḥ ǀ cit ǀ ī́śe ǀ nákṣante ǀ índram ǀ śarádaḥ ǀ su-pṛ́kṣaḥ ǀ
úpa ǀ tri-bandhúḥ ǀ jarát-aṣṭim ǀ eti ǀ ásvaveśam ǀ yám ǀ kṛṇávanta ǀ mártāḥ ǁ
abhi ǀ yam ǀ devī ǀ niḥ-ṛtiḥ ǀ cit ǀ īśe ǀ nakṣante ǀ indram ǀ śaradaḥ ǀ su-pṛkṣaḥ ǀ
upa ǀ tri-bandhuḥ ǀ jarat-aṣṭim ǀ eti ǀ asvaveśam ǀ yam ǀ kṛṇavanta ǀ martāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.037.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.04.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.056
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.