Ṛk 7.32.12
Saṃhitā
उदिन्न्व॑स्य रिच्य॒तेऽंशो॒ धनं॒ न जि॒ग्युषः॑ ।
य इंद्रो॒ हरि॑वा॒न्न द॑भंति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥
उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः |
य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ||
údínnvásya ricyaté’ṃśo dhánam ná jigyúṣaḥ ǀ
yá índro hárivānná dabhanti tám rípo dákṣam dadhāti somíni ǁ
ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ |
ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||
Padapāṭha
उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।
यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥
उत् । इत् । नु । अस्य । रिच्यते । अंशः । धनम् । न । जिग्युषः ।
यः । इन्द्रः । हरिऽवान् । न । दभन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि ॥
út ǀ ít ǀ nú ǀ asya ǀ ricyate ǀ áṃśaḥ ǀ dhánam ǀ ná ǀ jigyúṣaḥ ǀ
yáḥ ǀ índraḥ ǀ hári-vān ǀ ná ǀ dabhanti ǀ tám ǀ rípaḥ ǀ dákṣam ǀ dadhāti ǀ somíni ǁ
ut ǀ it ǀ nu ǀ asya ǀ ricyate ǀ aṃśaḥ ǀ dhanam ǀ na ǀ jigyuṣaḥ ǀ
yaḥ ǀ indraḥ ǀ hari-vān ǀ na ǀ dabhanti ǀ tam ǀ ripaḥ ǀ dakṣam ǀ dadhāti ǀ somini ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.032.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.19.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.132
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-25, 27: Vasiṣṭha Maitrāvaruṇi; 26: Śakti Vāsiṣṭha (A); Vasiṣṭha Maitrāvaruṇi Or Śakti Vāsiṣṭha (B)
- Chandas छन्दस्
- Satobṛhatī, Bṛhatī, Dvipadā Virāj
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.