Ṛk 7.32.21
Saṃhitā
न दु॑ष्टु॒ती मर्त्यो॑ विंदते॒ वसु॒ न स्रेधं॑तं र॒यिर्न॑शत् ।
सु॒शक्ति॒रिन्म॑घवं॒तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥
न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् |
सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ||
ná duṣṭutī́ mártyo vindate vásu ná srédhantam rayírnaśat ǀ
suśáktirínmaghavantúbhyam mā́vate deṣṇám yátpā́rye diví ǁ
na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat |
suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi ||
Padapāṭha
न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् ।
सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥
न । दुःऽस्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् ।
सुऽशक्तिः । इत् । मघऽवन् । तुभ्यम् । माऽवते । देष्णम् । यत् । पार्ये । दिवि ॥
ná ǀ duḥ-stutī́ ǀ mártyaḥ ǀ vindate ǀ vásu ǀ ná ǀ srédhantam ǀ rayíḥ ǀ naśat ǀ
su-śáktiḥ ǀ ít ǀ magha-van ǀ túbhyam ǀ mā́-vate ǀ deṣṇám ǀ yát ǀ pā́rye ǀ diví ǁ
na ǀ duḥ-stutī ǀ martyaḥ ǀ vindate ǀ vasu ǀ na ǀ sredhantam ǀ rayiḥ ǀ naśat ǀ
su-śaktiḥ ǀ it ǀ magha-van ǀ tubhyam ǀ mā-vate ǀ deṣṇam ǀ yat ǀ pārye ǀ divi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.032.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.21.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.141
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-25, 27: Vasiṣṭha Maitrāvaruṇi; 26: Śakti Vāsiṣṭha (A); Vasiṣṭha Maitrāvaruṇi Or Śakti Vāsiṣṭha (B)
- Chandas छन्दस्
- Satobṛhatī, Bṛhatī, Dvipadā Virāj
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.