Ṛgveda · Maṇḍala 7 · Sūkta 26

Ṛk 7.26.5

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ए॒वा वसि॑ष्ठ॒ इंद्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति |
सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ||

evā́ vásiṣṭha índramūtáye nṝ́nkṛṣṭīnā́m vṛṣabhám suté gṛṇāti ǀ
sahasríṇa úpa no māhi vā́jānyūyám pāta svastíbhiḥ sádā naḥ ǁ

evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti |
sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।
स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति ।
सहस्रिणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

evá ǀ vásiṣṭhaḥ ǀ índram ǀ ūtáye ǀ nṝ́n ǀ kṛṣṭīnā́m ǀ vṛṣabhám ǀ suté ǀ gṛṇāti ǀ
sahasríṇaḥ ǀ úpa ǀ naḥ ǀ māhi ǀ vā́jān ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

eva ǀ vasiṣṭhaḥ ǀ indram ǀ ūtaye ǀ nṝn ǀ kṛṣṭīnām ǀ vṛṣabham ǀ sute ǀ gṛṇāti ǀ
sahasriṇaḥ ǀ upa ǀ naḥ ǀ māhi ǀ vājān ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.026.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.10.05
Maṇḍala · Anuvāka · Ṛk
07.02.088
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.26.5

Interpretations

Sāyaṇa

इन्द्रं नरइति पंचर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं इन्द्रंनरइत्यनुक्रान्तं महव्रते निष्केवल्य एतत्सूक्तं उक्तं तृतीयत्वेनेन्द्रेपशौ वपापुरोडाशहविषां आद्यास्तिस्रः क्रमेणानुवाक्याः । सूत्रितं च-इन्द्रंनरोनेमधिताहवन्तउरुंनोलोकमनुनेषिविद्वानिति ।