Ṛk 7.90.2
Saṃhitā
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥
ईशानाय प्रहुतिं यस् त आनट् छुचिं सोमं शुचिपास् तुभ्यं वायो |
कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ||
īśānā́ya práhutim yásta ā́naṭ chúcim sómam śucipāstúbhyam vāyo ǀ
kṛṇóṣi tám mártyeṣu praśastám jātójāto jāyate vājyásya ǁ
īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo |
kṛṇoṣi tam martyeṣu praśastaṃ jāto-jāto jāyate vājy asya ||
Padapāṭha
ई॒शा॒नाय॑ । प्रऽहु॑तिम् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ ।
कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तःऽजा॑तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥
ईशानाय । प्रऽहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिऽपाः । तुभ्यम् । वायो इति ।
कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाजी । अस्य ॥
īśānā́ya ǀ prá-hutim ǀ yáḥ ǀ te ǀ ā́naṭ ǀ śúcim ǀ sómam ǀ śuci-pāḥ ǀ túbhyam ǀ vāyo íti ǀ
kṛṇóṣi ǀ tám ǀ mártyeṣu ǀ pra-śastám ǀ jātáḥ-jātaḥ ǀ jāyate ǀ vājī́ ǀ asya ǁ
īśānāya ǀ pra-hutim ǀ yaḥ ǀ te ǀ ānaṭ ǀ śucim ǀ somam ǀ śuci-pāḥ ǀ tubhyam ǀ vāyo iti ǀ
kṛṇoṣi ǀ tam ǀ martyeṣu ǀ pra-śastam ǀ jātaḥ-jātaḥ ǀ jāyate ǀ vājī ǀ asya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.090.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.12.02
- Maṇḍala · Anuvāka · Ṛk
- 07.06.002
- Devatā देवता
- 1-4: Vāyu; 5-7: Indra, Vāyu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.