Ṛk 7.91.2
Saṃhitā
उ॒शंता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।
इंद्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्यं॑ ॥
उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः |
इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ||
uśántā dūtā́ ná dábhāya gopā́ māsáśca pātháḥ śarádaśca pūrvī́ḥ ǀ
índravāyū suṣṭutírvāmiyānā́ mārḍīkámīṭṭe suvitám ca návyam ǁ
uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ |
indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam ||
Padapāṭha
उ॒शन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः ।
इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥
उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः ।
इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥
uśántā ǀ dūtā́ ǀ ná ǀ dábhāya ǀ gopā́ ǀ māsáḥ ǀ ca ǀ pātháḥ ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǀ
índravāyū íti ǀ su-stutíḥ ǀ vām ǀ iyānā́ ǀ mārḍīkám ǀ īṭṭe ǀ suvitám ǀ ca ǀ návyam ǁ
uśantā ǀ dūtā ǀ na ǀ dabhāya ǀ gopā ǀ māsaḥ ǀ ca ǀ pāthaḥ ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǀ
indravāyū iti ǀ su-stutiḥ ǀ vām ǀ iyānā ǀ mārḍīkam ǀ īṭṭe ǀ suvitam ǀ ca ǀ navyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.091.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.13.02
- Maṇḍala · Anuvāka · Ṛk
- 07.06.009
- Devatā देवता
- 1, 3: Vāyu; 2, 4-7: Indra, Vāyu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.