Ṛgveda · Maṇḍala 7 · Sūkta 91

Ṛk 7.91.7

Vāyu · Indra, Vāyu · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

���र्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः |
वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ||

árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ ǀ
vājayántaḥ svávase huvema yūyám pāta svastíbhiḥ sádā naḥ ǁ

arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।
वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।
वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

árvantaḥ ǀ ná ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǀ indravāyū́ íti ǀ sustutí-bhiḥ ǀ vásiṣṭhāḥ ǀ
vāja-yántaḥ ǀ sú ǀ ávase ǀ huvema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

arvantaḥ ǀ na ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǀ indravāyū iti ǀ sustuti-bhiḥ ǀ vasiṣṭhāḥ ǀ
vāja-yantaḥ ǀ su ǀ avase ǀ huvema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.091.07
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.13.07
Maṇḍala · Anuvāka · Ṛk
07.06.014
Devatā देवता
1, 3: Vāyu; 2, 4-7: Indra, Vāyu
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.91.7

Interpretations

Sāyaṇa

आवायोइति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् अनुक्रान्तञ्च-आवायोपञ्चेति । शुनासीरीये पर्वणि वायोर्नियुत्वतो यागस्य आवायो इत्यनुवाक्या सूत्रितञ्च-आवायोभूषशुचिपाउपनः प्रयाभिर्यासिदाश्वांसमच्छेति । नियुत्वद्वायुदेवताके पशावेषैव वपाया अनुवाक्या प्रथमे छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैवाद्या सूत्रितञ्च-समुद्रादूर्मिरित्याज्यमावायोभूषशुचिपाइति ।