Ṛk 7.91.4
Saṃhitā
याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।
शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इंद्र॑वायू॒ सद॑तं ब॒र्हिरेदं ॥
यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः |
शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ||
yā́vattárastanvo yā́vadójo yā́vannáraścákṣasā dī́dhyānāḥ ǀ
śúcim sómam śucipā pātamasmé índravāyū sádatam barhírédám ǁ
yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ |
śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam ||
Padapāṭha
याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः ।
शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥
यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः ।
शुचिम् । सोमम् । शुचिऽपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥
yā́vat ǀ táraḥ ǀ tanváḥ ǀ yā́vat ǀ ójaḥ ǀ yā́vat ǀ náraḥ ǀ cákṣasā ǀ dī́dhyānāḥ ǀ
śúcim ǀ sómam ǀ śuci-pā ǀ pātam ǀ asmé íti ǀ índravāyū íti ǀ sádatam ǀ barhíḥ ǀ ā́ ǀ idám ǁ
yāvat ǀ taraḥ ǀ tanvaḥ ǀ yāvat ǀ ojaḥ ǀ yāvat ǀ naraḥ ǀ cakṣasā ǀ dīdhyānāḥ ǀ
śucim ǀ somam ǀ śuci-pā ǀ pātam ǀ asme iti ǀ indravāyū iti ǀ sadatam ǀ barhiḥ ǀ ā ǀ idam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.091.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.13.04
- Maṇḍala · Anuvāka · Ṛk
- 07.06.011
- Devatā देवता
- 1, 3: Vāyu; 2, 4-7: Indra, Vāyu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.