Ṛk 7.70.6
Saṃhitā
यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।
उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यंते यु॒वभ्यां॑ ॥
यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति |
उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ||
yó vām yajñó nāsatyā havíṣmānkṛtábrahmā samaryo bhávāti ǀ
úpa prá yātam váramā́ vásiṣṭhamimā́ bráhmāṇyṛcyante yuvábhyām ǁ
yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām ||
Padapāṭha
यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति ।
उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥
यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृतऽब्रह्मा । सऽमर्यः । भवाति ।
उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवऽभ्याम् ॥
yáḥ ǀ vām ǀ yajñáḥ ǀ nāsatyā ǀ havíṣmān ǀ kṛtá-brahmā ǀ sa-maryáḥ ǀ bhávāti ǀ
úpa ǀ prá ǀ yātam ǀ váram ǀ ā́ ǀ vásiṣṭham ǀ imā́ ǀ bráhmāṇi ǀ ṛcyante ǀ yuvá-bhyām ǁ
yaḥ ǀ vām ǀ yajñaḥ ǀ nāsatyā ǀ haviṣmān ǀ kṛta-brahmā ǀ sa-maryaḥ ǀ bhavāti ǀ
upa ǀ pra ǀ yātam ǀ varam ǀ ā ǀ vasiṣṭham ǀ imā ǀ brahmāṇi ǀ ṛcyante ǀ yuva-bhyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.070.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.17.06
- Maṇḍala · Anuvāka · Ṛk
- 07.04.143
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.