Ṛk 7.10.4
Saṃhitā
इंद्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हंतं॑ ।
आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रं ॥
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् |
आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ||
índram no agne vásubhiḥ sajóṣā rudrám rudrébhirā́ vahā bṛhántam ǀ
ādityébhiráditim viśvájanyām bṛ́haspátimṛ́kvabhirviśvávāram ǁ
indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam |
ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram ||
Padapāṭha
इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥
इन्द्रम् । नः । अग्ने । वसुऽभिः । सऽजोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् ।
आदित्येभिः । अदितिम् । विश्वऽजन्याम् । बृहस्पतिम् । ऋक्वऽभिः । विश्वऽवारम् ॥
índram ǀ naḥ ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǀ rudrám ǀ rudrébhiḥ ǀ ā́ ǀ vaha ǀ bṛhántam ǀ
ādityébhiḥ ǀ áditim ǀ viśvá-janyām ǀ bṛ́haspátim ǀ ṛ́kva-bhiḥ ǀ viśvá-vāram ǁ
indram ǀ naḥ ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǀ rudram ǀ rudrebhiḥ ǀ ā ǀ vaha ǀ bṛhantam ǀ
ādityebhiḥ ǀ aditim ǀ viśva-janyām ǀ bṛhaspatim ǀ ṛkva-bhiḥ ǀ viśva-vāram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.010.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.13.04
- Maṇḍala · Anuvāka · Ṛk
- 07.01.096
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.