Ṛk 7.52.3
Saṃhitā
तु॒र॒ण्यवोऽंगि॑रसो नक्षंत॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।
पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषंत ॥
तुरण्यवो ऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः |
पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त ||
turaṇyávó’ṅgiraso nakṣanta rátnam devásya savitúriyānā́ḥ ǀ
pitā́ ca tánno mahā́nyájatro víśve devā́ḥ sámanaso juṣanta ǁ
turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ |
pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta ||
Padapāṭha
तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः ।
पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥
तुरण्यवः । अङ्गिरसः । नक्षन्त । रत्नम् । देवस्य । सवितुः । इयानाः ।
पिता । च । तत् । नः । महान् । यजत्रः । विश्वे । देवाः । सऽमनसः । जुषन्त ॥
turaṇyávaḥ ǀ áṅgirasaḥ ǀ nakṣanta ǀ rátnam ǀ devásya ǀ savitúḥ ǀ iyānā́ḥ ǀ
pitā́ ǀ ca ǀ tát ǀ naḥ ǀ mahā́n ǀ yájatraḥ ǀ víśve ǀ devā́ḥ ǀ sá-manasaḥ ǀ juṣanta ǁ
turaṇyavaḥ ǀ aṅgirasaḥ ǀ nakṣanta ǀ ratnam ǀ devasya ǀ savituḥ ǀ iyānāḥ ǀ
pitā ǀ ca ǀ tat ǀ naḥ ǀ mahān ǀ yajatraḥ ǀ viśve ǀ devāḥ ǀ sa-manasaḥ ǀ juṣanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.052.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.19.03
- Maṇḍala · Anuvāka · Ṛk
- 07.03.132
- Devatā देवता
- Ādityās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.