Ṛk 7.3.6
Saṃhitā
सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।
दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुं ॥
सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके |
दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ||
susaṃdṛ́kte svanīka prátīkam ví yádrukmó ná rócasa upāké ǀ
divó ná te tanyatúreti śúṣmaścitró ná sū́raḥ práti cakṣi bhānúm ǁ
susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke |
divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum ||
Padapāṭha
सु॒ऽस॒न्दृक् । ते॒ । सु॒ऽअ॒नी॒क॒ । प्रती॑कम् । वि । यत् । रु॒क्मः । न । रोच॑से । उ॒पा॒के ।
दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः॑ । चि॒त्रः । न । सूरः॑ । प्रति॑ । च॒क्षि॒ । भा॒नुम् ॥
सुऽसन्दृक् । ते । सुऽअनीक । प्रतीकम् । वि । यत् । रुक्मः । न । रोचसे । उपाके ।
दिवः । न । ते । तन्यतुः । एति । शुष्मः । चित्रः । न । सूरः । प्रति । चक्षि । भानुम् ॥
su-sandṛ́k ǀ te ǀ su-anīka ǀ prátīkam ǀ ví ǀ yát ǀ rukmáḥ ǀ ná ǀ rócase ǀ upāké ǀ
diváḥ ǀ ná ǀ te ǀ tanyatúḥ ǀ eti ǀ śúṣmaḥ ǀ citráḥ ǀ ná ǀ sū́raḥ ǀ práti ǀ cakṣi ǀ bhānúm ǁ
su-sandṛk ǀ te ǀ su-anīka ǀ pratīkam ǀ vi ǀ yat ǀ rukmaḥ ǀ na ǀ rocase ǀ upāke ǀ
divaḥ ǀ na ǀ te ǀ tanyatuḥ ǀ eti ǀ śuṣmaḥ ǀ citraḥ ǀ na ǀ sūraḥ ǀ prati ǀ cakṣi ǀ bhānum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.003.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.04.01
- Maṇḍala · Anuvāka · Ṛk
- 07.01.042
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.