Ṛk 7.3.5
Saṃhitā
तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयंत॒ नरः॑ ।
नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥
तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः |
निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ||
támíddoṣā́ támuṣási yáviṣṭhamagnímátyam ná marjayanta náraḥ ǀ
niśíśānā átithimasya yónau dīdā́ya śocírā́hutasya vṛ́ṣṇaḥ ǁ
tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ |
niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ ||
Padapāṭha
तम् । इत् । दो॒षा । तम् । उ॒षसि॑ । यवि॑ष्ठम् । अ॒ग्निम् । अत्य॑म् । न । म॒र्ज॒य॒न्त॒ । नरः॑ ।
नि॒ऽशिशा॑नाः । अति॑थिम् । अ॒स्य॒ । योनौ॑ । दी॒दाय॑ । शो॒चिः । आऽहु॑तस्य । वृष्णः॑ ॥
तम् । इत् । दोषा । तम् । उषसि । यविष्ठम् । अग्निम् । अत्यम् । न । मर्जयन्त । नरः ।
निऽशिशानाः । अतिथिम् । अस्य । योनौ । दीदाय । शोचिः । आऽहुतस्य । वृष्णः ॥
tám ǀ ít ǀ doṣā́ ǀ tám ǀ uṣási ǀ yáviṣṭham ǀ agním ǀ átyam ǀ ná ǀ marjayanta ǀ náraḥ ǀ
ni-śíśānāḥ ǀ átithim ǀ asya ǀ yónau ǀ dīdā́ya ǀ śocíḥ ǀ ā́-hutasya ǀ vṛ́ṣṇaḥ ǁ
tam ǀ it ǀ doṣā ǀ tam ǀ uṣasi ǀ yaviṣṭham ǀ agnim ǀ atyam ǀ na ǀ marjayanta ǀ naraḥ ǀ
ni-śiśānāḥ ǀ atithim ǀ asya ǀ yonau ǀ dīdāya ǀ śociḥ ǀ ā-hutasya ǀ vṛṣṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.003.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.03.05
- Maṇḍala · Anuvāka · Ṛk
- 07.01.041
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.