Ṛk 7.58.3
Saṃhitā
बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ ।
ग॒तो नाध्वा॒ वि ति॑राति जं॒तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥
बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः |
गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ||
bṛhádváyo maghávadbhyo dadhāta jújoṣannínmarútaḥ suṣṭutím naḥ ǀ
gató nā́dhvā ví tirāti jantúm prá ṇaḥ spārhā́bhirūtíbhistireta ǁ
bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ |
gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta ||
Padapāṭha
बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ ।
ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥
बृहत् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिम् । नः ।
गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥
bṛhát ǀ váyaḥ ǀ maghávat-bhyaḥ ǀ dadhāta ǀ jújoṣan ǀ ít ǀ marútaḥ ǀ su-stutím ǀ naḥ ǀ
gatáḥ ǀ ná ǀ ádhvā ǀ ví ǀ tirāti ǀ jantúm ǀ prá ǀ naḥ ǀ spārhā́bhiḥ ǀ ūtí-bhiḥ ǀ tireta ǁ
bṛhat ǀ vayaḥ ǀ maghavat-bhyaḥ ǀ dadhāta ǀ jujoṣan ǀ it ǀ marutaḥ ǀ su-stutim ǀ naḥ ǀ
gataḥ ǀ na ǀ adhvā ǀ vi ǀ tirāti ǀ jantum ǀ pra ǀ naḥ ǀ spārhābhiḥ ǀ ūti-bhiḥ ǀ tireta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.058.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.28.03
- Maṇḍala · Anuvāka · Ṛk
- 07.04.035
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.