Ṛk 7.62.1
Saṃhitā
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणां ।
स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् |
समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ||
útsū́ryo bṛhádarcī́ṃṣyaśretpurú víśvā jánima mā́nuṣāṇām ǀ
samó divā́ dadṛśe rócamānaḥ krátvā kṛtáḥ súkṛtaḥ kartṛ́bhirbhūt ǁ
ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām |
samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt ||
Padapāṭha
उत् । सूर्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् ।
स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥
उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् ।
समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥
út ǀ sū́ryaḥ ǀ bṛhát ǀ arcī́ṃṣi ǀ aśret ǀ purú ǀ víśvā ǀ jánima ǀ mā́nuṣāṇām ǀ
samáḥ ǀ divā́ ǀ dadṛśe ǀ rócamānaḥ ǀ krátvā ǀ kṛtáḥ ǀ sú-kṛtaḥ ǀ kartṛ́-bhiḥ ǀ bhūt ǁ
ut ǀ sūryaḥ ǀ bṛhat ǀ arcīṃṣi ǀ aśret ǀ puru ǀ viśvā ǀ janima ǀ mānuṣāṇām ǀ
samaḥ ǀ divā ǀ dadṛśe ǀ rocamānaḥ ǀ kratvā ǀ kṛtaḥ ǀ su-kṛtaḥ ǀ kartṛ-bhiḥ ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.062.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.04.01
- Maṇḍala · Anuvāka · Ṛk
- 07.04.070
- Devatā देवता
- 1, 2: Sūrya; 3: Agni, Mitra, Varuṇa; 4: Aditi, Divaḥ, Pṛthivī, Mitra, Varuṇa, Vāyu; 5: Mitra, Varuṇa; 6: Aryaman, Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.