Ṛgveda · Maṇḍala 7 · Sūkta 61

Ṛk 7.61.7

Mitra, Varuṇa · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि |
विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ||

iyám deva puróhitiryuvábhyām yajñéṣu mitrāvaruṇāvakāri ǀ
víśvāni durgā́ pipṛtam tiró no yūyám pāta svastíbhiḥ sádā naḥ ǁ

iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

इयम् । देव । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।
विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

iyám ǀ deva ǀ puráḥ-hitiḥ ǀ yuvá-bhyām ǀ yajñéṣu ǀ mitrāvaruṇau ǀ akāri ǀ
víśvāni ǀ duḥ-gā́ ǀ pipṛtam ǀ tiráḥ ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

iyam ǀ deva ǀ puraḥ-hitiḥ ǀ yuva-bhyām ǀ yajñeṣu ǀ mitrāvaruṇau ǀ akāri ǀ
viśvāni ǀ duḥ-gā ǀ pipṛtam ǀ tiraḥ ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.061.07
Aṣṭaka · Adhyāya · Varga · Ṛk
5.5.03.07
Maṇḍala · Anuvāka · Ṛk
07.04.069
Devatā देवता
Mitra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.61.7

Interpretations

Sāyaṇa

उत्सूर्यइति षळृचं सप्तमं सूक्तं अत्रानुक्रमणिका-उत्सूर्यः षळाद्यास्तिस्रः सौर्यइति वसिष्ठऋषिः त्रिष्टुप् छन्दः आद्यास्तिस्रः सूर्यदेवत्याः शिष्टामित्रावरुणदेवत्याः सूक्तविनियोगोलैङ्गिकः ।