Ṛk 7.61.2
Saṃhitā
प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति ।
यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥
प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति |
यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः पृणैथे ||
prá vām sá mitrāvaruṇāvṛtā́vā vípro mánmāni dīrghaśrúdiyarti ǀ
yásya bráhmāṇi sukratū ávātha ā́ yátkrátvā ná śarádaḥ pṛṇáithe ǁ
pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti |
yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe ||
Padapāṭha
प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तऽवा॑ । विप्रः॑ । मन्मा॑नि । दी॒र्घ॒ऽश्रुत् । इ॒य॒र्ति॒ ।
यस्य॑ । ब्रह्मा॑णि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू । अवा॑थः । आ । यत् । क्रत्वा॑ । न । श॒रदः॑ । पृ॒णैथे॒ इति॑ ॥
प्र । वाम् । सः । मित्रावरुणौ । ऋतऽवा । विप्रः । मन्मानि । दीर्घऽश्रुत् । इयर्ति ।
यस्य । ब्रह्माणि । सुक्रतू इति सुऽक्रतू । अवाथः । आ । यत् । क्रत्वा । न । शरदः । पृणैथे इति ॥
prá ǀ vām ǀ sáḥ ǀ mitrāvaruṇau ǀ ṛtá-vā ǀ vípraḥ ǀ mánmāni ǀ dīrgha-śrút ǀ iyarti ǀ
yásya ǀ bráhmāṇi ǀ sukratū íti su-kratū ǀ ávāthaḥ ǀ ā́ ǀ yát ǀ krátvā ǀ ná ǀ śarádaḥ ǀ pṛṇáithe íti ǁ
pra ǀ vām ǀ saḥ ǀ mitrāvaruṇau ǀ ṛta-vā ǀ vipraḥ ǀ manmāni ǀ dīrgha-śrut ǀ iyarti ǀ
yasya ǀ brahmāṇi ǀ sukratū iti su-kratū ǀ avāthaḥ ǀ ā ǀ yat ǀ kratvā ǀ na ǀ śaradaḥ ǀ pṛṇaithe iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.061.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.03.02
- Maṇḍala · Anuvāka · Ṛk
- 07.04.064
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.